2026-05-06 06:43:13 by ambuda-bot
This page has not been fully proofread.
२०४
उपदेश सहस्त्री
साक्षादेव स विज्ञेयः साक्षादात्मेति च श्रुतेः ।
भिद्यते हृदयग्रन्थिर्न चेदित्यादितः श्रुतेः ॥ ३२ ॥
अशब्दादित्यतो नास्य ग्रहणं चेन्द्रियैर्भवेत् ।
सुखादिभ्यस्तथान्यत्वाद्वुद्ध्या वापि कथं भवेत् ॥ ३३ ॥
अदृश्योऽपि यथा राहुश्चन्द्रे विम्वं यथाम्भसि ।
सर्वगोऽपि तथैवात्मा बुद्धावेव स गृह्यते ॥ ३४ ॥
भानोर्विम्बं यथा चौष्ण्यं जले दृष्टं न चाम्भसः ।
बुद्धौ बोधो न तद्धर्मस्तथैव खाद्विधर्मतः ॥ ३५ ॥
चक्षुर्युक्ता धियो वृत्तिर्या तां पश्यन्नलुप्तढकू ।
प्रेर्देष्टा भवेदात्मा श्रुतेः श्रोता तथा श्रुतेः ॥ ३६ ॥
केवलां मनसो वृत्ति पश्यन्मन्ता मतेरजः ।
विज्ञातालुप्तशक्तित्वात्तथा शास्त्रान्न हीत्यतः ॥ ३७ ॥
ध्यायतीत्यविकारित्वं तथा लेलायतीत्यपि ।
अत्र स्नेनेति शुद्धत्वं तथानन्वागतश्रुतेः ॥ ३८ ॥
शक्त्यलोपात्सुषुप्ते ज्ञस्तथा बोधेऽविकारतः ।
ज्ञेयस्यैव विशेषस्तु यत्र वेति श्रुतेर्मतः ॥ ३९ ॥
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangot