2026-05-06 06:43:13 by ambuda-bot
This page has not been fully proofread.
पद्यप्रबन्धः ।
मनसश्चेन्द्रियाणां च होकाग्रथं परमं तपः ।
तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते ॥ २४ ॥
दृष्टं जागरितं विद्यात्स्मृतं स्वप्नं तदेव तु ।
सुपुप्तं तदभावं च स्वमात्मानं परं पदम् ॥ २५ ॥
सुषुप्त्याख्यं तमोऽज्ञानं बीजं स्वप्नप्रबोधयोः ।
स्वात्मबोधप्रदग्धं स्याद्वीजं दग्धं यथाभवम् ॥ २६ ॥
२०३
तदेवैकं त्रिधा ज्ञेयं मायाबीजं पुनः क्रमात् ।
मायाव्यात्माविकारोऽपि बहुधैको जलार्कवत् ॥ २७ ॥
बीजं चैकं यथा भिनं प्राणस्वप्नादिभिस्तथा ।
स्वप्नजाग्रच्छरीरेषु तद्वश्चात्मा जलेन्दुवत् ॥ २८ ॥
मायाहस्तिनमारुह्य मायाव्येको यथा व्रजेत् ।
आगच्छंस्तद्वदेवात्मा प्राणस्वप्नादिगोचरः ॥ २९ ॥
न हस्ती न तदारूढो मायाव्यन्यो यथा स्थितः ।
न प्राणादि न तद्रष्टा तथा झोऽन्यः सदादृशिः ॥ ३० ॥
अबद्धचक्षुषो नास्ति माया मायाविनोऽपि वा ।
बद्धाक्षस्यैव सा मायामायाव्येव ततो भवेत् ॥ ३१ ॥
E-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang