Proofing

This page has not been fully proofread.

२०२
 
उपदेशसहस्री
 
कल्प्योपाधिभिरेवैतद्भिन्नं ज्ञानमनेकधा ।
 
आधिभेदाद्यथा भेदो मणेरेकस्य जायते ॥ १६ ॥
 
जाग्रतश्च तथा भेदो ज्ञानस्यास्य विकल्पितः ।
बुद्धिस्थं व्याकरोत्यर्थं भ्रान्त्या तृष्णोद्भवक्रियः ॥ १७ ॥
 
स्वने तद्वत्प्रबोधे यो बहिश्चान्तस्तथैव च ।
आलेख्याध्ययने यद्वत्तदन्योन्यधियोद्भवम् ॥ १८ ॥
 
यदायं कल्पयेद्भेदं तत्कामः सन्यथाक्रतुः ।
यत्कामस्तत्क्रतुर्भूत्वा कृतं यत्तत्प्रपद्यते ॥ १९ ॥
 
अविद्याप्रभवं सर्वमसत्तस्मादिदं जगत् ।
तद्वता दृश्यते यस्मात्सुषुप्ते न च गृह्यते ॥ २० ॥
 
विद्याविद्ये श्रुतिप्रोक्ते एकत्वान्यधियौ हि नः ।
तस्मात्सर्वप्रयत्नेन शास्त्रे विद्या विधीयते ॥ २१ ॥
 
चित्ते ह्यादर्शवद्यस्माच्छुद्धे विद्या प्रकाशते ।
यमैर्नित्यैश्च नियमैस्तपोभिस्तस्य शोधनम् ॥ २२ ॥
 
शारीरादि तपः कुर्यात्तद्विशुद्धधर्थमुत्तमम् ।
मनआदिसमाधानं तत्तद्देद्दविशोषणम् ॥ २३ ॥
 
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangot