This page has not been fully proofread.

सर्ववेदान्तसिद्धान्तसारसंग्रहः । २११
 
एकश्चन्द्रः सद्वितीयो यथा स्या-
 
दृष्टेर्दोषादेव पुंसस्तथैकम् ।
ब्रह्मास्त्येतद्बुद्धिदोषेण नाना
 
दोषे नष्टे भाति वस्त्वेकमेव ॥ ६९० ॥
 
रज्जो: स्वरूपाधिगमे न सर्पधी
 
रज्ज्वां विलीना तु यथा तथैव ।
 
ब्रह्मावगत्या तु जगत्प्रतीति-
 
स्तत्रैव लीना तु सह भ्रमेण ॥। ६९१ ॥
 
भ्रान्त्योदितद्वैतमतिप्रशान्त्या
 
सदैकमेवास्ति सदाद्वितीयम् ।
 
ततो विजातीयकृतोऽत्र भेदो
 
न विद्यते ब्रह्मणि निर्विकल्पे ॥ ६९२ ॥
 
यदास्त्युपाधिस्तदभिन्न आत्मा
 
तदा सजातीय इवावभाति ।
 
स्वप्रार्थतस्तस्य मृषात्मकत्वा-
तदप्रतीतौ स्वयमेष आत्मा ।