Proofing

This page has not been fully proofread.

पद्यप्रबन्धः ।
 
कर्मकार्यस्त्वनित्यः स्यादविद्याकामकारणः ।
प्रमाणं वेद एवात्र ज्ञानस्याधिगमे स्मृतः ॥ ८ ॥
 
ज्ञानैकार्थपरत्वात्तं वाक्यमेकं ततो विदुः ।
एकत्वं ह्यात्मनोज्ञेयं वाक्यार्थप्रतिपत्तितः ॥ ९ ॥
 
वाच्यभेदात्तु तद्भेदः कल्प्यो वाच्योऽपि तच्छ्रुतेः ।
त्रयं त्वेतत्ततः प्रोक्तं रूपं नाम च कर्म च ॥ १० ॥
 
२०१
 
असदेतन्त्रयं यस्मादन्योन्येन हि कल्पितम् ।
कृतो वर्णो यथाशब्दाच्छ्रुतोऽन्यत्र धिया बहिः ॥ ११ ॥
 
दृष्टं चापि यथा रूपं युद्धेः शब्दाय कल्पते ।
एवमेतज्जगत्सर्वे भ्रान्तिबुद्धिविकल्पितम् ॥ १२ ॥
 
असदेतत्ततो युक्तं सच्चिन्मात्रं न कल्पितम् ।
वेदवापि स वाद्यो वेद्यं चान्यत्तु कल्पितम् ॥ १३ ॥
 
येन वेत्ति स वेदः स्यात्स्वप्ने सर्वे तु मायया ।
येन पश्यति तच्चक्षुः शृणोति श्रोत्रमुच्यते ॥ १४ ॥
 
येन स्वप्नगतो वक्ति सा वाग्घ्राणं तथैव च ।
रसनस्पर्शने चैव मनश्चान्यत्तथेन्द्रियम् ॥ १५ ॥
 
=-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang