Proofing

This page has not been fully proofread.

२००
 
उपदेशसहस्त्री
 
सम्यातिप्रकरणम् ॥
 
आत्मा ज्ञेयः परो ह्यात्मा यस्मादन्यन्न विद्यते ।
सर्वज्ञः सर्वदृक्शुद्धस्तस्मै ज्ञेयात्मने नमः ॥ १ ॥
 
पदवाक्यप्रमाणज्ञैर्दीपभूतैः प्रकाशितम् ।
 
ब्रह्म वेदरहस्यं यैस्तान्नित्यं प्रणतोऽस्म्यहम् ॥ २ ॥
 
यद्वाक्सूर्याशुसंपातप्रणष्टध्वान्तकल्मषः ।
 
प्रणम्य तान्गुरून्वक्ष्ये ब्रह्मविद्याविनिश्चयम् ॥ ३ ॥
 
आत्मलाभात्परो नान्यो लाभः कश्चन विद्यते ।
यदर्था वेदवादाश्च स्मार्ताश्चापि तु याः क्रियाः ॥ ४ ॥
 
आत्मार्थोऽपि हि यो लाभः सुखायेष्टो विपर्ययः ।
आत्मलाभः परः प्रोक्तो नित्यत्वाद्ब्रह्मवेदिभिः ॥ ५ ॥
 
स्वयं लब्धस्वभावत्वाल्लाभस्तस्य न चान्यतः।
अन्यापेक्षस्तु यो लाभः सोऽन्यदृष्टिसमुद्भवः ॥ ६ ॥
 
अन्यदृष्टिस्त्वविद्या स्यात्तन्नाशी मोक्ष उच्यते ।
ज्ञानेनैव तु सोऽपि स्याद्विरोधित्वान्न कर्मणा ॥ ७ ॥
 
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangot