This page has not been fully proofread.

सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
चतुर्विधं स्थूलशरीरजातं
 
तद्भोज्यमन्नादि तदाश्रयादि ।
 
ब्रह्माण्डमेतत्सकलं स्थविष्ठ-
 
मीक्षेत पञ्चीकृतभूतमात्रम् ॥ ६८२ ॥
 
यत्कार्यरूपेण यदीक्ष्यते त-
 
तन्मात्रमेवात्र विचार्यमाणे ।
 
मृत्कार्यभूतं कलशादि सम्य-
 
विचारितं सन्न मृदो विभिद्यते ॥ ६८३ ॥
 
अन्तर्बहिश्चापि मृदेव दृश्यते
 
मृदो न भिन्नं कलशादि किंचन ।
 
ग्रीवादिमद्यत्कलशं तदित्थं
 
न वाच्यमेतच्च मृदेव नान्यत् ॥ ६८४ ॥
 
स्वरूपतस्तत्कलशादिनाम्ना
 
मृदेव मूढैरभिधीयते ततः ।
 
नानो हि भेदो न तु वस्तुभेदः
 
दृश्यते तत्र विचार्यमाणे ॥ ६८५ ॥
 
s. P. II. 14
 
२०९.