Proofing

This page has not been fully proofread.

पद्यप्रबन्धः ।
 
समीक्ष्य कार्या मतिरार्जवे सदा
 
न तत्त्वदृक्शाख्यमतिर्हि कश्चन ॥ ७० ॥
 
अनेकजन्मान्तरसंचितैर्नरो
 
विमुच्यतेऽज्ञाननिमित्तपातकैः ।
 
इदं विदित्वा परमं च पावनं
 
न लिप्यते व्योमवदेव कर्मभिः ॥ ७१ ॥
 
प्रशान्तचित्ताय जितेन्द्रियाय च
प्रहीणदोपाय यथोक्तकारिणे ।
गुणान्वितायानुगताय सर्वदा
प्रदेयमेतत्सततं मुमुक्षवे ॥ ७२ ॥
 
परस्य देहे न यथात्ममानिता
परस्य तद्वत्परमार्थमीक्ष्य च ।
इदं हि विज्ञानमतीव निर्मलं
 
संप्राप्य मुक्तोऽथ भवेश्च सर्वतः ॥ ७३ ॥
 
न हीह लाभोऽभ्यधिकोऽस्ति कश्चन
स्वरूपलाभात्स इतो हि नान्यतः ।
न देयमैन्द्रादपि राज्यतोऽधिकं
 
स्वरूपलाभं त्वपरीक्ष्य यत्नतः ॥ ७४ ॥
 
१९९
 
-- 0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang