2026-02-24 05:23:37 by ambuda-bot
This page has not been fully proofread.
२०८
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
विशेषणं तु व्यावृत्त्यै भवेद्द्रव्यान्तरे सति ।
परमात्माद्वितीयोऽयं प्रपञ्चस्य मृषात्वतः ॥ ६७४ ॥
वस्त्वन्तरस्याभावेन न व्यावृत्त्यः कदाचन ।
haat निर्गुणश्चेति निर्गुणत्वं निरुच्यते ॥ ६७५ ॥
श्रुत्यैव न ततस्तेषां गुणत्वमुपपद्यते ।
उष्णत्वं च प्रकाशश्च यथा वह्नेस्तथात्मनः ॥ ६७६ ॥
सत्त्वचित्त्वानन्दतादि स्वरूपमिति निश्चितम् ।
अत एव सजातीयविजातीयादिलक्षण: ॥ ६७७ ॥
भेदो न विद्यते वस्तुन्यद्वितीये परात्मनि ।
प्रपञ्चस्यापवादेन विजातीयकृता भिदा ॥ ६७८ ॥
नेष्यते तत्प्रकारं ते वक्ष्यामि शृणु सादरम् ।
अहेर्गुणविवर्तस्य गुणमात्रस्य वस्तुतः ॥ ६७९ ॥
विवर्तस्यास्य जगतः सन्मात्रत्वेन दर्शनम् ।
अपवाद इति प्राहुरद्वैत ब्रह्मदर्शिनः ॥ ६८० ॥
व्युत्क्रमेण तदुत्पत्तेर्द्रष्टव्यं सूक्ष्मबुद्धिभिः ।
प्रतीतस्यास्य जगतः सन्मात्रत्वं सुयुक्तिभिः ॥ ६८१ ॥