2026-05-06 06:43:12 by ambuda-bot
This page has not been fully proofread.
१९८
उपदेश सहसी
तस्माद्भान्तिरतोऽन्या हि बन्धमोक्षादिकल्पनाः ।
सांख्यकाणादबौद्धानां मीमांसाहतकल्पनाः ॥ ६४ ॥
शास्त्रयुक्तिविरोधात्ता नादर्तव्याः कदाचन ।
शक्यन्ते शतशो वक्तुं दोषास्तासां सहस्रशः ॥ ६५ ॥
अपि निन्दोपपत्तेश्च यान्यतोऽन्यानि चेत्यतः ।
त्यक्त्वातो ह्यन्यशास्त्रोक्तीर्मतिं कुर्याद्दृढां बुधः ॥ ६६ ॥
श्रद्धाभक्ती पुरस्कृत्य हित्वा सर्वमनार्जवम् ।
वेदान्तस्यैव तस्वार्थे व्यासस्याभिमते तथा ॥ ६७ ॥
इति प्रणुन्ना द्वयवादिकल्पना
निरात्मवादाश्च तथा हि युक्तितः ।
व्यपेतशङ्काः परवादतः स्थिरा
मुमुक्षवो ज्ञानपथे स्युरित्यतः ॥ ६८ ॥
स्वसाक्षिकं ज्ञानमतीव निर्मलं
विकल्पनाभ्यो विपरीतमद्वयम् ।
अवाप्य सम्यग्यदि निश्चितो भवे-
निरन्वयो निर्वृतिमेति शाश्वतीम् ॥ ६९ ॥
इदं रहस्यं परमं परायणं
व्यपेतदोषैरभिमानवर्जितः ।
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangot