This page has not been fully proofread.

सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
२०५
 
यात्येष विषयानन्दो यस्तु पुण्यैकसाधनः ।
 
ये तु वैषयिकानन्दं भुञ्जते पुण्यकारिणः ॥ ६५० ॥
 
दुःखं च भोगकालेऽपि तेषामन्ते महत्तरम् ।
सुखं विषयसंपृक्तं विषसंपृक्तभक्तवत् ॥ ६५१ ॥
 
भोगकालेऽपि भोगान्तं दुःखमेव प्रयच्छति ।
सुखमुच्चावचत्वेन क्षयिष्णुत्वभयेन च ॥ ६५२ ॥
 
भोगकाले भवेन्नृणां ब्रह्मादिपदभाजिनाम् ।
राजस्थानप्रविष्टानां तारतम्यं मतं यथा ॥ ६५३ ॥
 
तथैव दुःखं जन्तूनां ब्रह्मादिपदभाजिनाम् ।
न काङ्क्षणीयं विदुषा तस्माद्वैषयिकं सुखम् ॥ ६५४ ॥
 
यो बिम्बभूत आनन्दः स आत्मानन्दलक्षणः ।
शाश्वतो निर्द्वयः पूर्णो नित्य एकोऽपि निर्भयः ॥ ६५५ ॥
 
लक्ष्यते प्रतिबिम्बेनाभासानन्देन बिम्बवत् ।
 
प्रतिबिम्ब बिम्बमूलो विना बिम्बं न सिध्यति ॥ ६५६ ॥
 
तो म् आनन्द: प्रतिबिम्बेन लक्ष्यते ।
 
युक्त्यैव पण्डितजनैर्न कदाप्यनुभूयते ॥ ६५७ ॥