Proofing

This page has not been fully proofread.

पद्यप्रबन्धः ।
 
संयोगस्याप्यनित्यत्वाद्वियोगस्य तथैव च ।
गमनागमने चैव स्वरूपं तु न हीयते ॥ ४० ॥
 
स्वरूपस्यानिमित्तत्वात्सनिमित्ता हि चापरे ।
अनुपात्तं स्वरूपं हि स्वेनात्यक्तं तथैव च ॥ ४१ ॥
 
१९५
 
स्वरूपत्वान्न सर्वस्य त्यक्तुं शक्यो ानन्यतः ।
ग्रहीतुं वा ततो नित्योऽविषयत्वात्पृथक्त्वतः ॥ ४२ ॥
 
आत्मार्थत्वाच सर्वस्य नित्य आत्मैव केवलः ।
त्यजेत्तस्मात्क्रियाः सर्वाः साधनैः सह मोक्षवित् ॥
 
आत्मलाभः परो लाभ इति शास्त्रोपपत्तयः ।
अलाभोऽनात्मलाभस्तु त्यजेत्तस्मादनात्मताम् ॥ ४४ ॥
 
गुणानां समभावस्य भ्रंशो न ह्युपपद्यते ।
अविद्यादेः प्रसुप्तत्वान्न चान्यो हेतुरिप्यते ॥ ४५ ॥
 
इतरेतरहेतुत्वे प्रवृत्तिः स्यात्सदा न वा ।
 
नियमो न प्रवृत्तीनां गुणेष्वात्मनि वा भवेत् ॥ ४६ ॥
 
विशेषो मुक्तबद्धानां तादृर्थ्य न च युज्यते ।
 
अर्थार्थिनोस्तु संबन्धी नाथ शो नेतरोऽपि वा ॥ ४७ ॥
 
=-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang