This page has not been fully proofread.

२०४
 
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
अन्यत्र त्वन्यधर्माणामुपलम्भो न दृश्यते ।
 
तस्मान्न वस्तुधर्मोऽयमानन्दस्तु कदाचन ॥ ६४२ ॥
 
नाप्येष धर्मो मनसोऽसत्यर्थे तददर्शनात् ।
 
अति व्यञ्जके व्यङ्गयं नोदेतीति न मन्यताम् ॥६४३॥
 
सत्यर्थेऽपि च नोदेति ह्यानन्दस्तूक्तलक्षणः ।
 
सत्यपि व्यके व्यङ्गयानुदयो नैव संमतः ॥ ६४४ ॥
 
दुरदृष्टादिकं नात्र प्रतिबन्धः प्रकल्प्यताम् ।
 
प्रियस्य वस्तुनो लाभे दुरदृष्टं न सिध्यति ॥ ६४५ ॥
 
तस्मान्न मानसो धर्मो निर्गुणत्वान्न चात्मनः ।
 
किं तु पुण्यस्य सांनिध्यादिष्टस्यापि च वस्तुनः ॥ ६४६ ॥
 
सत्त्वप्रधाने चित्तेऽस्मिंस्त्वात्मैव प्रतिबिम्बति ।
 
आनन्दलक्षणः स्वच्छे पयसीव सुधाकरः ॥ ६४७ ॥
 
सोऽयमाभास आनन्दचित्ते यः प्रतिबिम्बित: ।
पुण्योत्कर्षापकर्षाभ्यां भवत्युच्चावचः स्वयम् ॥ ६४८ ॥
 
सार्वभौमादिब्रह्मान्तं श्रुत्या यः प्रतिपादितः ।
 
स क्षयिष्णुः सातिशयः प्रक्षीणे कारणे लयम् ॥ ६४९ ॥