2026-05-06 06:43:11 by ambuda-bot
This page has not been fully proofread.
१९४
उपदेशसाहस्री
येनाधिगम्यतेऽभावस्तत्सत्स्यात्तन्न चेद्भवेत् ।
भावाभावानभिशत्वं लोकस्य स्यान्न चेप्यते ॥ ३२ ॥
सदसत्सदसच्चेति विकल्पात्प्राग्यदिष्यते ।
तदद्वैतं समत्वात्तु नित्यं चान्यद्विकल्पितात् ॥ ३३ ॥
विकल्पोद्भवतोऽसत्त्वं स्वप्नदृश्यवदिष्यताम् ।
द्वैतस्य प्रागसत्त्वाच्च सदसत्त्वादिकल्पनात् ॥ ३४ ॥
चाचारम्भणशास्त्राच्च विकाराणां ह्यभावता ।
मृत्योः स मृत्युमित्यादेर्मम मायेति च स्मृतेः ॥ ३५ ॥
विशुद्धिश्वात एवास्य विकल्पाच्च विलक्षणः ।
उपादेयो न हेयोऽत आत्मा नान्यैरकल्पितः ॥ ३६ ॥
अप्रकाशो यथादित्ये नास्ति ज्योतिःस्वभावतः ।
नित्यबोधस्वरूपत्वान्नाज्ञानं तद्वदात्मनि ॥ ३७ ॥
तथाविक्रियरूपत्वान्नावस्थान्तरमात्मनः ।
अवस्थान्तरवत्त्वे हि नाशोऽख स्यान्न संशयः ॥ ३८ ॥
मोक्षोऽवस्थान्तरं यस्य कृतकः स चलो हातः ।
न संयोगो वियोगो वा मोक्षो युक्तः कथंचन ॥ ३९ ॥
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangotri