2026-02-24 05:23:36 by ambuda-bot
This page has not been fully proofread.
सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
अज्ञात्वैव हि निक्षेप
भिक्षामटति दुर्मतिः ।
स्ववेश्मनि निधिं ज्ञात्वा
को नु भिक्षामत्सुधीः ॥ ६३६ ॥
स्थूलं च सूक्ष्मं च वपुः स्वभावतो
दुःखात्मकं स्वात्मतया गृहीत्वा ।
विस्मृत्य च स्वं सुखरूपमात्मनः
दुःखप्रदेभ्यः सुखमज्ञ इच्छति ॥ ६३७ ॥
न हि दुःखप्रदं वस्तु सुखं दातुं सर्महति ।
किं विषं पिबतो जन्तोरमृतत्वं प्रयच्छति ॥ ६३८ ॥
आत्मान्यः सुखमन्यच्चेत्येवं निश्चित्य पामरः ।
बहिः सुखाय यतते सत्यमेव न संशयः ॥ ६३९ ॥
इष्टस्य वस्तुनो ध्यानदर्शनाद्युपभुक्तिषु ।
२०३
प्रतीयते य आनन्दः सर्वेषामिह देहिनाम् ॥ ६४० ॥
स वस्तुधर्मो नो यस्मान्मनस्येवोपलभ्यते ।
वस्तुधर्मस्य मनसि कथं स्यादुपलम्भनम् ॥ ६४१ ॥
"