Proofing

This page has not been fully proofread.

१९३
 
पद्यप्रबन्धः ।
 
स्वाकारान्यावभास्यं च येषां रूपादि विद्यते ।
येषां नास्ति ततश्चान्यत्पूर्वासंगतिरुच्यते ॥ २४ ॥
 
वाह्याकारत्वतो ज्ञप्तेः स्मृत्यभावः सदा क्षणात् ।
क्षणिकत्वाश्च संस्कारं नैवाधन्ते क्वचित्तु धीः ॥ २५ ॥
 
आधारस्याप्यसत्त्वाच्च तुल्यतानिर्निमित्ततः ।
स्थाने वा क्षणिकत्वस्य हानं स्यान्न तदिष्यतें ॥ २६ ॥
 
शान्तेश्वायत्न सिद्धत्वात्साधनोक्तिरनर्थिका ।
एकैकस्मिन्समाप्तत्वाच्छान्तेरन्यानपेक्षता ॥ २७ ॥
 
अपेक्षा यदि भिन्नेऽपि परसंतान इप्यताम् ।
सर्वार्थे क्षणिके कस्मिस्तथाप्यन्यानपेक्षता ॥ २८ ॥
 
तुल्यकालसमुद्भूतावितरेतरयोगिणौ ।
 
योगाश्च संस्कृतो यस्तु सोऽन्यं हीक्षितुमर्हति ॥ २९ ॥
 
मृपाध्यासस्तु यत्र स्यात्तन्नाशस्तत्र नो मतः ।
सर्वनाशो भवेद्यस्य मोक्षः कस्य फलं वद ॥ ३० ॥
 
अस्ति तावत्स्वयं नाम ज्ञानं वात्मान्यदेव वा ।
भावाभावज्ञतस्तस्य नाभावस्त्वधिगम्यते ॥ ३१ ॥
 
8. P. 13
 
-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang