Proofing

This page has not been fully proofread.

१९२
 
उपदेशसाहस्री
 
अविकल्पं तदस्त्येव यत्पूर्व स्याद्विकल्पतः ।
विकल्पोत्पत्तिहेतुत्वाद्यद्यस्यैव तु कारणम् ॥ १६ ॥
 
अज्ञानं कल्पनामूलं संसारस्य नियामकम् ।
हित्वात्मानं परं ब्रह्म विन्द्यान्मुक्तं सदाभयम् ॥
 
जाग्रत्स्वप्नौ तयोवीजं सुपुप्ताख्यं तमोमयम् ।
अन्योन्यस्मिन्नसत्त्वाश्च नास्तीत्येतत्रयं त्यजेत् ॥
 
आत्मबुद्धिमनश्चक्षुरालोकार्थादिसंकरात् ।
 
भ्रान्तिः खादात्मकर्मेति क्रियाणां संनिपाततः ॥
 
निमीलोन्मीलने स्थाने वायव्ये ते न चक्षुषः ।
प्रकाशत्वान्मनस्येवं बुद्धी न स्तः प्रकाशतः ॥
 
संकल्पाध्यवसायौ तु मनोबुद्ध्योर्यथा क्रमात् । .
नेतरेतरधर्मत्वं सर्वे चात्मनि कल्पितम् ॥
 
स्थानावच्छेददृष्टिः स्यादिन्द्रियाणां तदात्मताम् ।
गता धीस्तां हि पश्य शो देहमात्र इवेक्ष्यते ॥
 
क्षणिकं हि तदत्यर्थं धर्ममात्रं निरन्तरम् ।
सादृश्याद्दीपवत्तद्धीस्तच्छान्तिः पुरुषार्थता ॥ २३ ॥
 
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangotri