This page has not been fully proofread.

सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
आत्मनः सुखरूपत्वादानन्दत्वं स्वलक्षणम् ।
परप्रेमास्पदत्वेन सुखरूपत्वमात्मनः ॥ ६२३ ।
सुखहेतुषु सर्वेषां प्रीतिः सावधिरीक्ष्यते ।
कदापि नावधिः प्रीतेः स्वात्मनि प्राणिनां क्वचित् ॥
 
क्षीणेन्द्रियस्य जीर्णस्य संप्राप्तात्क्रमणस्य वा ।
 
२०१
 
अस्ति जीवितुमेवाशा स्वात्मा प्रियतमो यतः ॥ ६२५ ॥
 
आत्मातः परमप्रेमास्पदः सर्वशरीरिणाम् ।
 
यस्य शेषतया सर्वमुपादेयत्वमृच्छति ॥ ६२६ ॥
 
एष एव प्रियतमः पुत्रादपि धनादपि ।
 
अन्यस्मादपि सर्वस्मादात्मायं परमान्तरः ॥ ६२७ ॥
 
प्रयत्वेन मतं यत्तु तत्सदा नाप्रियं नृणाम् ।
विपत्तावपि संपत्तौ यथात्मा न तथापरः ॥ ६२८ ॥
 
आत्मा खलु प्रियतमोऽसुभृतां यदर्था
 
भार्यात्मजाप्तगृहवित्तमुखाः पदार्थाः ।
 
वाणिज्यकर्षणगवावनराजसेवा-
 
भैषज्यकप्रभृतयो विविधाः क्रियाश्च ॥ ६२९ ॥