2026-05-06 06:43:10 by ambuda-bot
This page has not been fully proofread.
१९०
उपदेशसाहस्री
पार्थिवप्रकरणम् ॥
पार्थिवः कठिनो धातुर्द्रवो देहे स्मृतोऽम्मयः ।
पक्तिचेष्टावकाशाः स्युर्वह्निवाय्वम्बरोद्भवाः ॥ १ ॥
घ्राणादीनि तदर्थाश्च पृथिव्यादिगुणाः क्रमात् ।
रूपालोकवदिष्टं हि सजातीयार्थमिन्द्रियम् ॥ २ ॥
बुद्ध्यर्थान्याहुरेतानि वाक्पाण्यादीनि कर्मणे ।
तद्विकल्पार्थमन्तःस्थं मन एकादशं भवेत् ॥ ३ ॥
निश्चयार्था भवेद्वुद्धिस्तां सर्वार्थानुभावनीम् ।
शातात्मोक्तः स्वरूपेण ज्योतिषा व्यञ्जयन्सदा ॥ ४ ॥
व्यञ्जकस्तु यथालोको व्यङ्ग्यस्याकारतां गतः ।
व्यतिकीर्णोऽप्यसंकीर्णस्तद्वज्ज्ञः प्रत्ययैः सदा ॥ ५ ॥
स्थितो दीपो यथायत्नः प्राप्तं सर्व प्रकाशयेत् ।
शब्दाद्याकारबुद्धीर्शः प्राप्तास्तद्वत्प्रपश्यति ॥ ६ ॥
शरीरेन्द्रियसंघात आत्मत्वेन गतां धियम् ।
नित्यात्मज्योतिषा दीप्तां विशिषन्ति सुखादयः ॥ ७ ॥
CC-0. Mumukshu Bhawan Varanasi Collection. Digitized by eGangotri