This page has not been fully proofread.

सर्ववेदान्तसिद्धान्तसारसंग्रहः ।
 
१९९
 
आयातासु गतासु शैशवमुखावस्थासु जाग्रन्मुखा-
स्वन्यास्वप्यखिलासु वृत्तिषु धियो दुष्टास्वदुष्टास्वपि ।
 
गङ्गाभङ्गपरम्परासु जलवत्सत्तानुवृत्तात्मन-
 
स्तिष्ठत्येव सदा स्थिराहमहमित्येकात्मता साक्षिणः ॥
 
प्रतिपदमहमादयो विभिन्नाः
 
क्षणपरिणामितया विकारिणस्ते ।
 
न परिणतिरमुष्य निष्कलत्वा-
 
दयविकार्यत एव नित्य आत्मा ॥ ६१५ ॥
 
यः स्वप्नमद्राक्षमहं सुखं यो-
 
स्वासं स एवास्म्यथ जागरूकः ।
 
इत्येवमच्छिन्नतयानुभूयते
 
सत्तात्मनो नास्ति हि संशयोऽत्र ॥ ६१६ ॥
 
श्रुत्युक्ताः षोडशकलाश्चिदाभासस्य नात्मनः ।
 
निष्कलत्वान्नास्य लयस्तस्मान्नित्यत्वमात्मनः ॥ ६१७ ॥
 
जडप्रकाशकः सूर्यः प्रकाशात्मैव नो जडः ।
बुद्धयादिभासकस्तस्माच्चित्स्वरूपस्तथा मतः ॥ ६१८ ॥