2026-05-06 06:43:09 by ambuda-bot
This page has not been fully proofread.
पद्यप्रबन्धः ।
ज्ञातायनोऽपि तद्वज्शः कर्ता भ्रामकचन्द्भवेत् ।
१८९
स्वरूपेण स्वयं नात्मा शेयोऽज्ञेयोऽथवा ततः ॥ ४८ ॥
विदिताविदिताभ्यां तदन्यदेवेति शासनात् ।
बन्धमोक्षादयो भावास्तद्वदात्मनि कल्पिताः ॥
नाहोरात्रे यथा सूर्ये प्रभारुपाविशेषतः ।
बोधरूपाविशेषान्न बोधाबोधौ तथात्मनि ॥ ५० ॥
यथोक्तं ब्रह्म यो वेद हानोपादानवर्जितम् ।
यथोक्तेन विधानेन स सत्यं नैव जायते ॥ ५१ ॥
जन्ममृत्युप्रवाहेषु पतितो नैव शक्नुयात् ।
इत उद्धर्तुमात्मानं ज्ञानादन्येन केनचित् ॥ ५२ ॥
भिद्यते हृदयग्रन्थिछिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्ट इति श्रुतेः ॥
ममाहमित्येतदपोह्य सर्वतो
विमुक्तदेहं पदमम्बरोपमम् ।
सुदृष्टशास्त्रानुमितिभ्य ईरितं
विमुच्यतेऽस्मिन्यदि निश्चितो नरः ॥ ५४ ॥
---
-- 0. Mumukshu Bhawan Varanasi Collection. Digitized by eGang