2026-05-05 04:48:58 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>३३४
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<p>रूपं दृष्टवान् असि यत् मम, देवाः अपि अस्य मम रूपस्य
नित्यं सर्वदा दर्शनकाङ्क्षिणः ; दर्शनेप्सवोऽपि न त्वमिव
दृष्टवन्तः, न द्रक्ष्यन्ति च इति अभिप्राय:यः ॥
</p>
<p>कस्मात् ?
11
---</p>
<verse>नाहं वेदैर्न तपसा
न दानेन न चेज्यया ।
शक्य एवंविधो द्रष्टुं
दृष्टवानसि मां यथा ॥ ५३ ॥
</verse>
<p>न अहं वेदैः ऋग्यजुःसामाथर्ववेदैः चतुर्भिरपि, न तपसा
उग्रेण चान्द्रायणादिना, न दानेन गोभूहिरण्यादिना, न च
इज्यया यज्ञेन पूजया वा शक्यः एवंविधः यथादर्शितप्रकार:
रः
द्रष्टुं दृष्टवान् असि मां यथा त्वम् ॥
</p>
<p>कथं पुनः शक्यः इति उच्यते-
—</p>
<verse>भक्त्या त्वनन्यया शक्य
अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन
प्रवेष्टुं च परंतप ॥ ५४ ॥
</verse>
</page>
<ignore>३३४
<p>रूपं दृष्टवान् असि यत् मम, देवाः अपि अस्य मम रूपस्य
नित्यं सर्वदा दर्शनकाङ्क्षिणः ; दर्शनेप्सवोऽपि न त्वमिव
दृष्टवन्तः, न द्रक्ष्यन्ति च इति अभिप्रा
<p>कस्मात् ?
11
<verse>नाहं वेदैर्न तपसा
न दानेन न चेज्यया ।
शक्य एवंविधो द्रष्टुं
दृष्टवानसि मां यथा ॥ ५३ ॥
<p>न अहं वेदैः ऋग्यजुःसामाथर्ववेदैः चतुर्भिरपि, न तपसा
उग्रेण चान्द्रायणादिना, न दानेन गोभूहिरण्यादिना, न च
इज्यया यज्ञेन पूजया वा शक्यः एवंविधः यथादर्शितप्रका
द्रष्टुं दृष्टवान् असि मां यथा त्वम् ॥
<p>कथं पुनः शक्यः इति उच्यते
<verse>भक्त्या त्वनन्यया शक्य
अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन
प्रवेष्टुं च परंतप ॥ ५४ ॥
</page>