2026-05-03 04:19:23 by ambuda-bot
This page has not been fully proofread.
एकादशोऽध्यायः ।
३३३
स्वकं वसुदेवस्य गृहे जातं रूपं दर्शयामास दर्शितवान् भूयः
पुनः । आश्वासयामास च आश्वासितवान् भीतम् एनम्,
भूत्वा पुनः सौम्यवपुः प्रसन्नदेहः महात्मा ॥
अर्जुन उवाच-
दृष्ट्वेदं मानुषं रूपं
तव सौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः
सचेताः प्रकृतिं गतः ॥ ५१ ॥
दृष्ट्वा इदं मानुषं रूपं मत्सखं प्रसन्नं तव सौम्यं जना -
र्दन, इदानीम् अधुना अस्मि संवृत्तः संजातः । किम् ?
सचेताः प्रसन्नचित्तः प्रकृतिं स्वभावं गतश्च अस्मि ॥
श्रीभगवानुवाच-
सुदुर्दर्शमिदं रूपं
दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य
नित्यं दर्शनकाङ्क्षिणः ॥ ५२ ॥
सुदुर्दर्श सुष्ठु दुःखेन दर्शनम् अस्य इति सुदुर्दर्शम् इदं
"