2026-05-03 04:19:19 by ambuda-bot
This page has not been fully proofread.
एकादशोऽध्यायः ।
३२९
तस्मात्प्रणम्य प्रणिधाय कायं
प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम् ॥४४॥
तस्मात् प्रणम्य नमस्कृत्य, प्रणिधाय प्रकर्षेण नीचैः
धृत्वा कार्यं शरीरम्, प्रसादये प्रसादं कारये त्वाम् अहम्
ईशम् ईशितारम्, ईड्यं स्तुत्यम् । त्वं पुनः पुत्रस्य अपराधं
पिता यथा क्षमते, सर्व सखा इव सख्युः अपराधम्, यथा
वा प्रियः प्रियायाः अपराधं क्षमते, एवम् अर्हसि हे देव
सोढुं प्रसहितम् क्षन्तुम् इत्यर्थः ॥
अदृष्टपूर्व हृषितोऽस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे ।
तदेव मे दर्शय देव रूपं
प्रसीद देवेश जगन्निवास ॥ ४५ ॥
अदृष्टपूर्वं न कदाचिदपि दृष्टपूर्वम् इदं विश्वरूपं तव
मया अन्यैर्वा, तत् अहं दृष्ट्वा हृषितः अस्मि । भयेन च
प्रव्यथितं मनः मे । अतः तदेव मे मम दर्शय हे देव रूपं