2026-05-05 02:57:20 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२४ श्रीमद्भगवद्गीताभाष्ये</ignore>

षया बुद्धिः येषां ते हि पण्डिताः, <quote>'पाण्डित्यं निर्विद्य'</quote> इति
श्रुतेः । परमार्थतस्तु तान् नित्यान् अशोच्यान् अनुशोचसि,
अतो मूढोऽसि इत्यभिप्रायः ॥

कुतस्ते अशोच्याः, यतो नित्याः । कथम् ? –

<verse text="M">न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥<fix> १२ ॥</fix></verse>

न तु एव जातु कदाचित् अहं नासम्, किं तु आसमेव ।
अतीतेषु देहोत्पत्तिविनाशेषु घटादिषु वियदिव नित्य एव
अहमासमित्यभिप्रायः । तथा न त्वं न आसीः, किं तु
आसीरेव । तथा न इमे जनाधिपाः न आसन्, किं तु
आसन्नेव । तथा न च एव न भविष्यामः, किं तु भविष्याम
एव, सर्वे वयम् अतः अस्मात् देहविनाशात् परम् उत्तरकाले
अपि । त्रिष्वपि कालेषु नित्या आत्मस्वरूपेण इत्यर्थः । देहभे-
दानुवृत्त्या बहुवचनम्, नात्मभेदाभिप्रायेण ॥

तत्र कथमिव नित्य आत्मेति दृष्टान्तमाह —

<verse text="M">देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १३ ॥</verse>
</page>