Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>द्वितीयोऽध्यायः । २३</ignore>
<p text="C">कर्मसमुच्चितात्, इति निश्चितोऽर्थः । यथा चायमर्थः, तथा
प्रकरणशो विभज्य तत्र तत्र दर्शयिष्यामः ॥
तत्त्रैवं धर्मसंमूढचेतसो मिथ्याज्ञानवतो महति शोकसागरे
निमग्नस्य अर्जुनस्य अन्यत्रात्मज्ञानादुद्धरणमपश्यन् भगवा-
न्वासुदेवः ततः कृपया अर्जुनमुद्दिधारयिषुः आत्मज्ञानाया-
वतारयन्नाह ---</p>
<verse text="M">श्रीभगवानुवाच ---
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥<fix> ११ ॥</fix></verse>
<p text="C" merge-next="true">अशोच्यान् इत्यादि । न शोच्या अशोच्याः भीष्मद्रो-
णादयः, सद्वृत्तत्वात् परमार्थस्वरूपेण च नित्यत्वात्, तान्
अशोच्यान् अन्वशोचः अनुशोचितवानसि &ap<quos;te>' ते म्रियन्ते
मन्निमित्तम्, अहं तैर्विनाभूतः किं करिष्यामि राज्यसुखा-
दिना&ap'</quos;te> इति । त्वं प्रज्ञावादान् प्रज्ञावतां बुद्धिमतां वादांश्च
वचनानि च भाषसे । तदेतत् मौढ्यं पाण्डित्यं च विरुद्धम्
आत्मनि दर्शयसि उन्मत्त इव इत्यभिप्रायः । यस्मात् गता-
सून् गतप्राणान् मृतान्, अगतासून् अगतप्राणान् जीवतश्च
न अनुशोचन्ति पण्डिताः आत्मज्ञाः । पण्डा आत्मवि-</p>
</page>