2026-05-05 02:59:31 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२० श्रीमद्भगवद्गीताभाष्ये</ignore>
<p text="C">प्राक् दारपरिग्रहात् पुरुषः आत्मा प्राकृतो धर्मजिज्ञासोत्तर -
कालं लोकत्रयसाधनम् — पुत्रम्, द्विप्रकारं च वित्तं मानुषं
दैवं च; तत्र मानुषं कर्मरूपं पितृलोकप्राप्तिसाधनं विद्यां
च दैवं वित्तं देवलोकप्राप्तिसाधनम् — <quote>''सोऽकामयत''</quote> इति
अविद्याकामवत एव सर्वाणि कर्माणि श्रौतादीनि दर्शितानि ।
तेभ्यः'<quote>'व्युत्थाय प्रव्रजन्ति''</quote> इति व्युत्थानमात्मानमेव
लोकमिच्छतोऽकामस्य विहितम् । तदेतद्विभागवचनमनुपपन्नं
स्याद्यदि श्रौतकर्मज्ञानयोः समुच्चयोऽभिप्रेतः स्याद्भगवतः ॥
न च अर्जुनस्य प्रश्न उपपन्नो भवति <quote>''ज्यायसी चेत्कर्म-
णस्ते''</quote> इत्यादिः । एकपुरुषानुष्ठेयत्वासंभवं बुद्धिकर्मणोः भग-
वता पूर्वमनुक्तं कथमर्जुनः अश्रुतं बुद्धेश्च कर्मणो ज्यायस्त्वं
भगवत्यध्यारोपयेन्मृषैव <quote>''ज्यायसी चेत्कर्मणस्ते मता बुद्धिः''</quote>
इति ॥</p>
<p text="C">किंच— यदि बुद्धिकर्मणोः सर्वेषां समुच्चय उक्तः स्यात्
अर्जुनस्यापि स उक्त एवेति, <quote>''यच्छ्रेय एतयोरेकं तन्मे ब्रूहि
सुनिश्चितम्''</quote> इति कथमुभयोरुपदेशे सति अन्यतरविषय
एव प्रश्नः स्यात् ? न हि पित्तप्रशमनार्थिनः वैद्येन मधुरं
शीतलं च भोक्तव्यम् इत्युपदिष्टे तयोरन्यतरत्पित्तप्रशमनका-
रणं ब्रूहि इति प्रश्नः संभवति ॥</p>
</page>
<ignore>२० श्रीमद्भगवद्गीताभाष्ये</ignore>
<p text="C">प्राक् दारपरिग्रहात् पुरुषः आत्मा प्राकृतो धर्मजिज्ञासोत्तर -
कालं लोकत्रयसाधनम् — पुत्रम्, द्विप्रकारं च वित्तं मानुषं
दैवं च; तत्र मानुषं कर्मरूपं पितृलोकप्राप्तिसाधनं विद्यां
च दैवं वित्तं देवलोकप्राप्तिसाधनम् — <quote>
अविद्याकामवत एव सर्वाणि कर्माणि श्रौतादीनि दर्शितानि ।
तेभ्यः
लोकमिच्छतोऽकामस्य विहितम् । तदेतद्विभागवचनमनुपपन्नं
स्याद्यदि श्रौतकर्मज्ञानयोः समुच्चयोऽभिप्रेतः स्याद्भगवतः ॥
न च अर्जुनस्य प्रश्न उपपन्नो भवति <quote>
णस्ते
वता पूर्वमनुक्तं कथमर्जुनः अश्रुतं बुद्धेश्च कर्मणो ज्यायस्त्वं
भगवत्यध्यारोपयेन्मृषैव <quote>
इति ॥</p>
<p text="C">किंच— यदि बुद्धिकर्मणोः सर्वेषां समुच्चय उक्तः स्यात्
अर्जुनस्यापि स उक्त एवेति, <quote>
सुनिश्चितम्
एव प्रश्नः स्यात् ? न हि पित्तप्रशमनार्थिनः वैद्येन मधुरं
शीतलं च भोक्तव्यम् इत्युपदिष्टे तयोरन्यतरत्पित्तप्रशमनका-
रणं ब्रूहि इति प्रश्नः संभवति ॥</p>
</page>