Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>१० श्रीमद्भगवद्गीताभाष्ये</ignore>
<verse text="M">आचार्याः पितरः पुत्रा-
स्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः
स्यालाः संबन्धिनस्तथा ॥ ३४ ॥</verse>
<verse text="M">एतान्न हन्तुमिच्छामि घ्ननतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥<fix> ३५ ॥</fix></verse>
<verse text="M">निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ ३६ ॥</verse>
<verse text="M">तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्सबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥<fix> ३७ ॥</fix></verse>
<verse text="M">यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३८ ॥</verse>
<verse text="M">कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ३९ ॥</verse>
</page>