Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>२७१
नवमोऽध्यायः ।

२७१

</ignore>

यतः एवम्, अत:-

<verse>
यत्करोषि यदश्नासि

यज्जुहोषि ददासि यत् ।
यत्

यत्
तपसि कौन्तेय

तत्कुरुष्व मदर्पणम् ॥ २७ ॥

</verse>

यत् करोषि स्वतः प्राप्तम्, यत् अश्नासि यच्च जुहोषि

हवनं निर्वर्तयसि श्रौतं स्मार्तं वा, यत् ददासि प्रयच्छसि

ब्राह्मणादिभ्यः हिरण्यान्नाज्यादि, यत् तपस्यसि तपः चरसि

कौन्तेय, तत् कुरुष्व मदर्पणं मत्समर्पणम् ॥

एवं कुर्वतः तव यत् भवति, तत् शृणु-

शुभाशुभफलैरेवं

मोक्ष्यसे कर्मबन्धनैः

संन्यासयोगयुक्तात्मा

विमुक्तो मामुपैष्यसि ॥ ८ ॥

शुभाशुभफलैः शुभाशुभे इष्टानिष्टे फले येषां तानि शुभा-

शुभफलानि कर्माणि तैः शुभाशुभफलैः कर्मबन्धनैः कर्माण्येव

बन्धनानि कर्मबन्धनानि तैः कर्मबन्धनैः एवं मदर्पणं कुर्वन्

</page>