2026-05-04 05:00:48 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२७०
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<verse>भूतानि यान्ति भूतेज्या
यान्ति मद्याजिनोऽपि माम् ॥ २५ ॥
</verse>
<p>यान्ति गच्छन्ति देवत्रता:व्रताः देवेषु व्रतं नियमो भक्तिश्च
येषां ते देवत्व्रता: देवान् यान्ति । पितृन् अग्निष्वात्तादीन्
यान्ति पितृव्रताः श्राद्धादिक्रियापराः पितृभक्ता:ताः । भूतानि
विनायकमातृगणचतुर्भगिन्यादीनि यान्ति भूतेज्याः भूतानां
पूजकाः । यान्ति मद्याजिनः मद्यजनशीला:लाः वैष्णवाः मा-
मेव यान्ति । समाने अपि आयासे मामेव न भजन्ते
अज्ञानात्, तेन ते अल्पफलभाजः भवन्ति इत्यर्थः ॥
</p>
<p>न केवलं मद्भक्तानाम् अनावृत्तिलक्षणम् अनन्तफलम्,
सुखाराधनश्च अहम् । कथम् ? -
-
-</p>
<verse>पत्रं पुष्पं फलं तोयं
यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृत-
मश्नामि प्रयतात्मनः ॥ २६ ॥
</verse>
<p>पत्रं पुष्पं फलं तोयम् उदकं यः मे मह्यं भक्त्या प्रय-
च्छति, तत् अहं पत्रादि भक्त्या उपहृतं भक्तिपूर्वकं प्रापितं
भक्त्युपहृतम् अश्नामि गृह्णामि प्रयतात्मनः शुद्धबुद्धेः ॥
</p>
</page>
<ignore>२७०
<verse>भूतानि यान्ति भूतेज्या
यान्ति मद्याजिनोऽपि माम् ॥ २५ ॥
<p>यान्ति गच्छन्ति देव
येषां ते देव
यान्ति पितृव्रताः श्राद्धादिक्रियापराः पितृभक्
विनायकमातृगणचतुर्भगिन्यादीनि यान्ति भूतेज्याः भूतानां
पूजकाः । यान्ति मद्याजिनः मद्यजनशी