Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>२६७
नवमोऽध्यायः ।
 
२६७
 
</ignore>
<verse>
ते तं भुक्त्वा स्वर्गलोकं विशालं

क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।

एवं त्रयीधर्ममनुप्रपन्ना
 

गतागतं कामकामा लभन्ते ॥ २१ ॥
 
</verse>
<p>
ते तं भुक्त्वा स्वर्गलोकं विशालं विस्तीर्ण क्षीणे पुण्ये

मर्त्यलोकं विशन्ति आविशन्ति । एवं यथोक्तेन प्रकारेण त्रयी-

धर्म केवलं वैदिकं कर्म अनुप्रपन्नाः गतागतं गतं च आगतं

च गतागतं गमनागमनं कामकामाः कामान् कामयन्ते इति

कामकामा: लभन्ते गतागतमेव, न तु स्वातन्त्र्यं क्वचित्

लभन्ते इत्यर्थः ॥
 
</p>
<p>
ये पुनः निष्कामाः सम्यग्दर्शिनः–
 
--</p>
<verse>
अनन्याश्चिन्तयन्तो मां

ये जनाः पर्युपासते ।
 

तेषां नित्याभियुक्तानां
 

योगक्षेमं वहाम्यहम् ॥ २२ ॥
 
</verse>
<p merge-next="true">
अनन्याः अपृथग्भूताः परं देवं नारायणम् आत्मत्वेन गताः

सन्तः चिन्तयन्तः मां ये जनाः संन्यासिनः पर्युपासते, तेषां
 
</p>
</page>