Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२६४
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<verse>
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् ।

मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ १६ ॥
 
</verse>
<p>
अहं क्रतुः श्रौतकर्मभेदः अहमेव । अहं यज्ञ: स्मार्तः ।

किंच स्वधा अन्नम् अहम्, पितृभ्यो यत् दीयते । अहम्

औषधं सर्वप्राणिभिः यत् अद्यते तत् औषधशब्दशब्दितं त्री-

हियवादिसाधारणम् । अथवा स्वधा इति सर्वप्राणिसाधा --

रणम् अन्नम्, औषधम् इति व्याध्युपशमनार्थं भेषजम् । मन्त्रः

अहम्, येन पितृभ्यो देवताभ्यश्च हविः दीयते । अहमेव

आज्यं हविश्च । अहम् अग्निः, यस्मिन् हूयते हविः सः अग्निः

अहम् । अहं हुतं हवनकर्म च ॥
 
</p>
<p>
किंच-
 
--</p>
<verse>
पिताहमस्य जगतो माता धाता पितामहः ।

वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ॥ १७ ॥
 
</verse>
<p>
पिता जनयिता अहम् अस्य जगतः,
माता जनयित्री,

धाता कर्मफलस्य प्राणिभ्यो विधाता, पितामहः पितुः पिता,

वेद्यं वेदितव्यम्, पवित्रं पावनम् ओंकारः, ऋक् साम यजुः
 

एव च ॥
 
</p>
</page>