2026-05-04 04:58:40 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>नवमोऽध्यायः ।
२६३
</ignore>
<p>सततं सर्वदा भगवन्तं ब्रह्मस्वरूपं मां कीर्तयन्तः, यतन्त-
श्च इन्द्रियोपसंहारशमदमदयाहिंसादिलक्षणैः धर्मैः प्रयतन्तश्च,
दृढव्रताः दृढं स्थिरम् अचाल्यं व्रतं येषां ते दृढव्रताः नम-
स्यन्तश्च मां हृदयेशयम् आत्मानं भक्त्या नित्ययुक्ताः सन्तः
उपासते सेवन्ते ॥
</p>
<p>ते केन केन प्रकारेण उपासते इत्युच्यते--
-</p>
<verse>ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५॥
I
</verse>
<p>ज्ञानयज्ञेन ज्ञानमेव भगवद्विषयं यज्ञः तेन ज्ञानयज्ञेन,
यजन्तः पूजयन्तः माम् ईश्वरं च अपि अन्ये अन्याम् उपास-
नां परित्यज्य उपासते । तच्च ज्ञानम् — एकत्वेन ' एकमेव परं
ब्रह्म' इति परमार्थदर्शनेन यजन्तः उपासते । केचिच्च पृथ-
क्त्वेन 'आदित्यचन्द्रादिभेदेन स एव भगवान् विष्णुः अव-
स्थित:तः' इति उपासते । केचित् 'बहुधा अवस्थितः स एव
भगवान् सर्वतोमुखः विश्वरूपः' इति तं विश्वरूपं सर्वतोमुखं
बहुधा बहुप्रकारेण उपासते ॥
</p>
<p>यदि बहुभिः प्रकारैः उपासते, कथं त्वामेव उपासते इति,
अत आह—
</p>
</page>
<ignore>नवमोऽध्यायः ।
<p>सततं सर्वदा भगवन्तं ब्रह्मस्वरूपं मां कीर्तयन्तः, यतन्त-
श्च इन्द्रियोपसंहारशमदमदयाहिंसादिलक्षणैः धर्मैः प्रयतन्तश्च,
दृढव्रताः दृढं स्थिरम् अचाल्यं व्रतं येषां ते दृढव्रताः नम-
स्यन्तश्च मां हृदयेशयम् आत्मानं भक्त्या नित्ययुक्ताः सन्तः
उपासते सेवन्ते ॥
<p>ते केन केन प्रकारेण उपासते इत्युच्यते--
<verse>ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५॥
I
<p>ज्ञानयज्ञेन ज्ञानमेव भगवद्विषयं यज्ञः तेन ज्ञानयज्ञेन,
यजन्तः पूजयन्तः माम् ईश्वरं च अपि अन्ये अन्याम् उपास-
नां परित्यज्य उपासते । तच्च ज्ञानम् — एकत्वेन '
ब्रह्म' इति परमार्थदर्शनेन यजन्तः उपासते । केचिच्च पृथ-
क्त्वेन 'आदित्यचन्द्रादिभेदेन स एव भगवान् विष्णुः अव-
स्थि