2026-05-04 05:06:27 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>नवमोऽध्यायः ।
२६१
</ignore>
<p>एवं मां नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वजन्तूनाम्
आत्मानमपि सन्तम्-
---</p>
<verse>अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ११ ॥
</verse>
<p>अवजानन्ति अवज्ञां परिभवं कुर्वन्ति मां मूढाः अविवे-
किनः मानुषीं मनुष्यसंबन्धिनीं तनुं देहम् आश्रितम्, मनु-
ध्यदेहेन व्यवहरन्तमित्येतत् परं प्रकृष्टं भावं परमात्मत-
त्वम् आकाशकल्पम् आकाशादपि अन्तरतमम् अजानन्तो
मम भूतमहेश्वरं सर्वभूतानां महान्तम् ईश्वरं स्वात्मानम् ।
ततश्च तस्य मम अवज्ञानभावनेन आहताः ते वराकाः ॥
</p>
<p>कथम् ?
-
"
---</p>
<verse>मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥
<fix> १२ ॥</fix></verse>
<p merge-next="true">मोघाशाः वृथा आशाः आशिषः येषां ते मोघाशाः,
तथा मोघकर्माणः यानि च अग्निहोत्रादीनि तैः अनुष्ठीय-
मानानि कर्माणि तानि च तेषां भगवत्परिभवात्, स्वात्म-
भूतस्य अवज्ञानात्, मोघान्येव निष्फलानि कर्माणि भव-
न्तीति मोघकर्माणः । तथा मोघज्ञानाः मोघं निष्फलं ज्ञानं
</p>
</page>
<ignore>नवमोऽध्यायः ।
<p>एवं मां नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वजन्तूनाम्
आत्मानमपि सन्तम्