2026-05-04 05:08:39 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>नवमोऽध्यायः ।
२५९
</ignore>
<p>तर्हि तस्य ते परमेश्वरस्य, भूतप्ग्रामम् इमं विषमं विद-
धतः, तन्निमित्ताभ्यां धर्माधर्माभ्यां संबन्धः स्यादिति, इदम्
आह भगवान् —
</p>
<verse>न च मां तानि कर्माणि निबध्नन्ति धनंजय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥
</verse>
<p>न च माम् ईश्वरं तानि भूतग्रामस्य
विषमसर्गनिमित्तानि
कर्माणि निवबध्नन्ति धनंजय । तत्र कर्मणां असंबन्धित्वे
कारणमाह— उदासीनवत् आसीनं यथा उदासीनः उपे-
क्षकः कश्चित् तद्वत् आसीनम्, आत्मनः अविक्रियत्वात्,
असक्तं फलासङ्गरहितम्, अभिमानवर्जितम् ' अहं करोमि '
इति तेषु कर्मसु । अतः अन्यस्यापि कर्तृत्वाभिमानाभावः
फलासङ्गाभावश्च असंबन्धकारणम्, अन्यथा कर्मभिः बध्यते
मूढः कोशकारवत् इत्यभिप्राय:यः ॥
</p>
<p>तत्र ' भूतप्ग्राममिमं विसृजामि' ' उदासीनवदासीनम् '
इति च विरुद्धम् उच्यते इति तत्परिहारार्थम् आह-
"
--</p>
<verse>मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥
</verse>
</page>
<ignore>नवमोऽध्यायः ।
<p>तर्हि तस्य ते परमेश्वरस्य, भूत
धतः, तन्निमित्ताभ्यां धर्माधर्माभ्यां संबन्धः स्यादिति, इदम्
आह भगवान् —
<verse>न च मां तानि कर्माणि निबध्नन्ति धनंजय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥
<p>न च माम् ईश्वरं तानि भूतग्रामस्य
कर्माणि नि
कारणमाह— उदासीनवत् आसीनं यथा उदासीनः उपे-
क्षकः कश्चित् तद्वत् आसीनम्, आत्मनः अविक्रियत्वात्,
असक्तं फलासङ्गरहितम्, अभिमानवर्जितम् ' अहं करोमि '
इति तेषु कर्मसु । अतः अन्यस्यापि कर्तृत्वाभिमानाभावः
फलासङ्गाभावश्च असंबन्धकारणम्, अन्यथा कर्मभिः बध्यते
मूढः कोशकारवत् इत्यभिप्रा
<p>तत्र '
इति च विरुद्धम् उच्यते इति तत्परिहारार्थम् आह-
"
<verse>मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ १० ॥
</page>