Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
नवमोऽध्यायः ।
 
२५५
 
</ignore>
<p>
विरोधि, किंतु धर्म्यं धर्मादनपेतम् । एवमपि, स्याद्दुःखसंपाद्य-

मित्यत आह— सुसुखं कर्तुम्, यथा रत्नविवेकविज्ञानम् ।

तत्र अल्पायासानामन्येषां कर्मणां सुखसंपाद्यानाम् अल्पफ-

लत्वं दुष्कराणां च महाफलत्वं दृष्टमिति, इदं तु सुखसंपा-

द्यत्वात् फलक्षयात् व्येति इति प्राप्ते, आह— अव्ययम्

इति । न अस्य फलत: कर्मवत् व्ययः अस्तीति अव्ययम् ।

अतः श्रद्धेयम् आत्मज्ञानम् ॥
 
</p>
<p>
ये पुनः-
 
--</p>
<verse>
अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप ।


अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ ३॥
 
</verse>
<p>
अश्रद्दधानाः श्रद्धाविरहिता: आत्मज्ञानस्य धर्मस्य अस्य

स्वरूपे तत्फले च नास्तिकाः पापकारिणः, असुराणाम् उ-

पनिषदं देहमात्रात्मदर्शनमेव प्रतिपन्नाः असुतृपः पापा: पुरु-

षा: अश्रद्दधानाः, परंतप, अप्राप्य मां परमेश्वरम् मत्प्राप्तौ

नैव आशङ्का इति मत्प्राप्तिमार्गभेदभक्तिमात्रमपि अप्राप्य

इत्यर्थः । निवर्तन्ते निश्चयेन वर्तन्ते ; क्व ? —— मृत्युसंसार-

वर्त्मनि मृत्युयुक्तः संसारः मृत्युसंसारः तस्य वर्त्म नरक-

तिर्यगादिप्राप्तिमार्गः, तस्मिन्नेव वर्तन्ते इत्यर्थः ॥
 
</p>
</page>