Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२५४
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
र्धारणार्थः । इदमेव तु सम्यग्ज्ञानं साक्षात् मोक्षप्राप्तिसाध-

नम् ' वासुदेवः सर्वमिति' '’ ‘आत्मैवेदं सर्वम्' '’ ‘एकमेवाद्वि-

तीयम्' इत्यादिश्रुतिस्मृतिभ्यः ; नान्यत्, 'अथ ते येऽन्य-

थातो विदुः अन्यराजानः ते क्षय्यलोका भवन्ति' इत्यादि-

श्रुतिभ्यश्च । ते तुभ्यं गुह्यतमं गोप्यतमं प्रवक्ष्यामि कथयि-

ष्यामि अनसूयवे असूयारहिताय । किं तत् ? ज्ञानम् । किं-

विशिष्टम् ? विज्ञानसहितम् अनुभवयुक्तम्, यत् ज्ञात्वा प्राप्य

मोक्ष्यसे अशुभात् संसारबन्धनात् ॥
 
</p>
<p>
तच्च-
 
—</p>
<verse>
राजविद्याराजगुह्यं पवित्रमिदमुत्तमम् ।

प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥
</verse>
<p merge-next="true">
राजविद्या विद्यानां राजा, दीप्त्यतिशयवत्त्वात्;
दीप्यते
हि इयम् अतिशयेन ब्रह्मविद्या सर्वविद्यानाम् । तथा राज-

गुह्यं गुह्यानां राजा । पवित्रं पावनं इदम् उत्तमं सर्वेषां पावना-

नां शुद्धिकारणं ब्रह्मज्ञानम् उत्कृष्टतमम् । अनेकजन्मसहस्रसं-

चितमपि धर्माधर्मादि समूलं कर्म क्षणमात्रादेव भस्मीकरोति

इत्यतः किं तस्य पावनत्वं वक्तव्यम् । किंच — प्रत्यक्षावगमं

प्रत्यक्षेण सुखादेरिव अवगमो यस्य तत् प्रत्यक्षावगमम् ।

अनेकगुणवतोऽपि धर्मविरुद्धत्वं दृष्टम्, न तथा आत्मज्ञानं धर्म-
 
</p>
</page>