Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
अष्टमोऽध्यायः ।
 
.४९
 
</ignore>
<verse>
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।

एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ २६ ॥
 
</verse>
<p>
शुक्लकृष्णे शुक्ला च कृष्णा च शुक्लकृष्णे, ज्ञानप्रकाशकत्वात्

शुक्ला, तदभावात् कृष्णा ; एते शुकुक्लकृष्णे हि गती जगत:
तः
इति अधिकृतानां ज्ञानकर्मणोः, न जगतः सर्वस्यैव एते

गती संभवत:तः ; शाश्वते नित्ये, संसारस्य नित्यत्वात्, मते

अभिप्रेते । तत्र एकया शुक्लया याति अनावृत्तिम्, अन्यया

इतरया आवर्तते पुनः भूयः ॥
 
</p>
<verse>
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
 
:
 

तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७
 
</verse>
<p>
न एते यथोक्ते सृती मार्गोंगौ पार्थ जानन् संसाराय एका,

अन्या मोक्षाय इति, योगी न मुह्यति कश्चन कश्चिदपि ।

तस्मात् सर्वेषु कालेषु योगयुक्तः समाहितो भव अर्जुन ॥
 
</p>
<p>
शृणु तस्य योगस्य माहात्म्यम् —
 
</p>
<verse merge-next="true">
वेदेषु यज्ञेषु तपःसु चैव
 

दानेषु यत्पुण्यफलं प्रदिष्टम् ।
 
</verse>
</page>