Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
अष्टमोऽध्यायः ।
 
२४७
 
</ignore>
<p>
प्रकृतानां योगिनां प्रणवावेशितब्रह्मबुद्धीनां कालान्तरमु-

क्तिभाजां ब्रह्मप्रतिपत्तये उत्तरो मार्गो वक्तव्य इति 'यत्र

काले' इत्यादि विवक्षितार्थसमर्पणार्थम् उच्यते, आवृत्तिमा-

र्गोपन्यासः इतरमार्गस्तुत्यर्थ:-
 
-
 
थः ---</p>
<verse>
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।

प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ
 
॥<fix> २३ ॥</fix></verse>
<p>
यत्र काले प्रयाताः इति व्यवहितेन संबन्धः । यत्र य-

स्मिन् काले तु अनावृत्तिम् अपुनर्जन्म आवृत्तिं तद्विपरीतां

चैव । योगिनः इति योगिनः कर्मिणश्च उच्यन्ते, कर्मिण-

स्तु गुणतः — ' कर्मयोगेन योगिनाम्' इति विशेषणात् —

योगिनः । यत्र काले प्रयाताः मृताः योगिनः अनावृत्ति
तिं
यान्ति, यत्र काले च प्रयाताः आवृत्तिं यान्ति, तं कालं

वक्ष्यामि भरतर्षभ ॥
 
</p>
<p>
तं कालमाह-
 
--</p>
<verse>
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।

तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥
<fix> २४ ॥</fix></verse>
<p merge-next="true">
अग्निः कालाभिमानिनी देवता । तथा ज्योतिरपि

देवतैव कालाभिमानिनी । अथवा, अग्निज्योतिषी यथा-
 
</p>
</page>