Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
अष्टमोऽध्यायः ।
 
२४५
 
</ignore>
<p>
अहरागमे, प्रलीयते पुनः पुनः रात्र्यागमे अह्नः क्षये अवशः

अस्वतन्त्र एव, हे पार्थ, प्रभवति जायते अवश एव

अहरागमे ॥
 

यत् उपन्यस्तम् अक्षरम्, तस्य प्राप्त्युपायो निर्दिष्टः
'

ओमित्येकाक्षरं ब्रह्म' इत्यादिना । अथ इदानीम् अक्षर-

स्यैव स्वरूपनिर्दिदिक्षयांया इदम् उच्यते, अनेन योगमार्गेण

इदं गन्तव्यमिति —
 
</p>
<verse>
परस्तस्मात्तु भावोऽन्यो-
 

ऽव्यक्तोऽव्यक्तात्सनातनः ।
 

यः स सर्वेषु भूतेषु
 

नश्यत्सु न विनश्यति ॥ २० ॥
 
</verse>
<p>
परः व्यतिरिक्तः भिन्नः कुतः ? तस्मात् पूर्वोक्तात् ।

तु-शब्द:दः अक्षरस्य विवक्षितस्य अव्यक्तात् वैलक्षण्यविशेष-
.

णार्थः । भावः अक्षराख्यं परं ब्रह्म । व्यतिरिक्तत्वे सत्यपि

सालक्षण्यप्रसङ्गोऽस्तीति तद्विनिवृत्त्यर्थम् आह — अन्यः
इं

ति । अन्यः विलक्षणः । स च अव्यक्तः अनिन्द्रियगोचरः ।
 
T
 
'

परस्तस्मात्' इत्युक्तम् ; कस्मात् पुनः परः ? पूर्वोक्तात् भूत-

ग्रामबीजभूतात् अविद्यालक्षणात् अव्यक्तात् । अन्यः विल-
 
</p>
</page>