Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
अष्टमोऽध्यायः ।
 
२४३
 
</ignore>
<p>
किं पुनः त्वत्तः अन्यत् प्राप्ताः पुनरावर्तन्ते इति,

उच्यते-
 
—</p>
<verse>
आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।

मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥
 
</verse>
<p>
आ ब्रह्मभुवनात् भवन्ति अस्मिन् भूतानि इति भुवनम्,

ब्रह्मणो भुवनं ब्रह्मभुवनम्, ब्रह्मलोक इत्यर्थः, आ ब्रह्मभुव-

नात् सह ब्रह्मभुवनेन लोकाः सर्वे पुनरावर्तिनः पुनरावर्तनस्व-

भावा:वाः हे अर्जुन । माम् एकम् उपेत्य तु कौन्तेय पुनर्जन्म

पुनरुत्पत्तिः न विद्यते ॥
 
</p>
<p>
ब्रह्मलोकसहिताः लोकाः कस्मात् पुनरावर्तिनः ? काल-

परिच्छिन्नत्वात् । कथम् ?
 
</p>
<verse>
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः ।
 

रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥
 
१७ ॥</verse>
<p>
सहस्रयुगपर्यन्तं सहस्राणि युगानि पर्यन्तः पर्यवसानं यस्य

अह्नः तत् अहः सहस्रयुगपर्यन्तम्, ब्रह्मणः प्रजापतेः विराजः

विदुः, रात्रिम् अपि युगसहस्रान्तां अहः परिमाणामेव । के वि-

दुरित्याह — ते अहोरात्रविदः कालसंख्याविदो जनाः इत्यर्थः ।

यतः एवं कालपरिच्छिन्नाः ते, अतः पुनरावर्तिनो लोकाः ॥
 
</p>
</page>