2026-05-05 02:27:18 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>अष्टमोऽध्यायः ।
२४१
</ignore>

मूर्ध्नि आधाय आत्मन:नः प्राणम् आस्थितः प्रवृत्तः योगधारणां
धारयितुम् ॥

तत्रैव च धारयन्--

<verse>ओमित्येकाक्षरं ब्रह्म
व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं
स याति परमां गतिम् ॥ १३ ॥
</verse>

ओमिति एकाक्षरं ब्रह्म ब्रह्मणः अभिधानभूतम् ओंकारं
व्याहरन् उच्चारयन्, तदर्थभूतं माम् ईश्वरम् अनुस्मरन्
अनुचिन्तयन् यः प्रयाति म्रियते, सः त्यजन् परित्यजन्
देहं शरीरम् —'‘त्यजन् देहम्'’ इति प्रयाणविशेषणार्थम्
देहत्यागेन प्रयाणम् आत्मनः, न स्वरूपनाशेनेत्यर्थः — सः
एवं याति गच्छति परमां प्रकृष्टां गतिम् ॥

किंच

<verse>अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥
: १४ ॥</verse>

अनन्यचेताः न अन्यविषये चेतः यस्य सोऽयम् अनन्य-
चेताः, योगी सततं सर्वदा यः मां परमेश्वरं स्मरति नित्यशः ।

<ignore>S. B. 16
</ignore>
</page>
<ignore>अष्टमोऽध्यायः ।

मूर्ध्नि आधाय आत्म
धारयितुम् ॥

तत्रैव च धारयन्
<verse>ओमित्येकाक्षरं ब्रह्म
व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं
स याति परमां गतिम् ॥ १३ ॥

ओमिति एकाक्षरं ब्रह्म ब्रह्मणः अभिधानभूतम् ओंकारं
व्याहरन् उच्चारयन्, तदर्थभूतं माम् ईश्वरम् अनुस्मरन्
अनुचिन्तयन् यः प्रयाति म्रियते, सः त्यजन् परित्यजन्
देहं शरीरम् —