Proofing

This page has not been fully proofread.

अष्टमोऽध्यायः ।
 
२४१
 
मूर्ध्नि आधाय आत्मन: प्राणम् आस्थितः प्रवृत्तः योगधारणां
 
धारयितुम् ॥
 
तत्रैव च धारयन् --
 
ओमित्येकाक्षरं ब्रह्म
 
व्याहरन्मामनुस्मरन् ।
 
यः प्रयाति त्यजन्देहं
 
स याति परमां गतिम् ॥ १३ ॥
 
ओमिति एकाक्षरं ब्रह्म ब्रह्मणः अभिधानभूतम् ओंकारं
व्याहरन् उच्चारयन्, तदर्थभूतं माम् ईश्वरम् अनुस्मरन्
अनुचिन्तयन् यः प्रयाति म्रियते सः त्यजन् परित्यजन्
देहं शरीरम् — 'त्यजन् देहम्' इति प्रयाणविशेषणार्थम्
देहत्यागेन प्रयाणम् आत्मनः, न स्वरूपनाशेनेत्यर्थः सः
एवं याति गच्छति परमां प्रकृष्टां गतिम् ॥
 
किंच
 
अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥
: अनन्यचेताः न अन्यविषये चेतः यस्य सोऽयम् अनन्य-
चेताः, योगी सततं सर्वदा यः मां परमेश्वरं स्मरति नित्यशः ।
 
S. B. 16