Proofing

This page has not been fully proofread.

२४०
 

 
श्रीमद्भगवद्गीताभाष्ये
 
यदिच्छन्तो ब्रह्मचर्य चरन्ति तत्ते पदं संग्रहेण ब्रवीम्यो-
मित्येतत्' इत्यादिभिश्च वचनैः परस्य ब्रह्मणो वाचकरूपेण,
प्रतिमावत् प्रतीकरूपेण वा परब्रह्मप्रतिपत्तिसाधनत्वेन मन्द-
मध्यमबुद्धीनां विवक्षितस्य ओंकारस्य उपासनं कालान्तरे
मुक्तिफलम् उक्तं यत्, तदेव इहापि 'कविं पुराणमनुशासि
तारम् ' ' यदक्षरं वेदविदो वदन्ति' इति च उपन्यस्तस्य परख
ब्रह्मणः पूर्वोक्तरूपेण प्रतिपत्त्युपायभूतस्य ओंकारस्य काला-
न्तरमुक्तिफलम् उपासनं योगधारणासहितं वक्तव्यम्, प्रस-
क्तानुप्रसक्तं च यत्किंचित्, इत्येवमर्थः उत्तरो ग्रन्थ आ-
रभ्यते—
 
सर्वद्वाराणि संयम्य
 
.
 
मनो हृदि निरुध्य च ।
 
मूर्ल्याधायात्मनः प्राण-
 
मास्थितो योगधारणाम् ॥ १२ ॥
 
सर्वद्वाराणि सर्वाणि च तानि द्वाराणि च सर्वद्वाराणि उप-
लब्धौ, तानि सर्वाणि संयम्य संयमनं कृत्वा मनः हृदि हृदय-
पुण्डरीके निरुध्य निरोधं कृत्वा निष्प्रचारमापाद्य, तत्र वशी-
कृतेन मनसा हृदयात् ऊर्ध्वगामिन्या नाड्या ऊर्ध्वमारुह्य