2026-05-05 02:29:13 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२३८
किंच-
श्रीमद्भगवद्गीताभाप्ष्ये
</ignore>

किंच —

<verse>प्रयाणकाले मनसाचलेन
भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्य-
क्स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥
</verse>

प्रयाणकाले मरणकाले मनसा अचलेन चलनवर्जितेन
भक्त्या युक्त:तः भजनं भक्तिः तया युक्त: :तः — योगबलेन चैव
योगस्य बलं योगबलं समाधिजसंस्कारप्रचयजनितचित्तस्थै-
र्यलक्षणं योगबलं तेन च युक्तः इत्यर्थः, पूर्व हृदयपुण्ड-
रीके वशीकृत्य चित्तं ततः ऊर्ध्वगामिन्या नाड्या भूमिजय-
क्रमेण भ्रुवोः मध्ये प्राणम् आवेश्य स्थापयित्वा सम्यक्
अप्रमत्तः सन्, सः एवं विद्वान् योगी'‘कविं पुराणम्'

इत्यादिलक्षणं तं परं परतरं पुरुषम् उपैति प्रतिपद्यते दिव्यं
द्योतनात्मकम् ॥

पुनरपि वक्ष्यमाणेन उपायेन प्रतिपित्सितस्य ब्रह्मणो वेद-
विद्वदनादिविशेषणविशेष्यस्य अभिधानं करोति भगवान् —

<verse merge--
next="true">यदक्षरं वेदविदो वदन्ति
विशन्ति यद्यतयो वीतरागाः ।

</verse>
</page>
<ignore>२३८
किंच-

किंच —

<verse>प्रयाणकाले मनसाचलेन
भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्य-
क्स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥

प्रयाणकाले मरणकाले मनसा अचलेन चलनवर्जितेन
भक्त्या युक्
योगस्य बलं योगबलं समाधिजसंस्कारप्रचयजनितचित्तस्थै-
र्यलक्षणं योगबलं तेन च युक्तः इत्यर्थः, पूर्व हृदयपुण्ड-
रीके वशीकृत्य चित्तं ततः ऊर्ध्वगामिन्या नाड्या भूमिजय-
क्रमेण भ्रुवोः मध्ये प्राणम् आवेश्य स्थापयित्वा सम्यक्
अप्रमत्तः सन्, सः एवं विद्वान् योगी
इत्यादिलक्षणं तं परं परतरं पुरुषम् उपैति प्रतिपद्यते दिव्यं
द्योतनात्मकम् ॥

पुनरपि वक्ष्यमाणेन उपायेन प्रतिपित्सितस्य ब्रह्मणो वेद-
विद्वदनादिविशेषणविशेष्यस्य अभिधानं करोति भगवान् —

<verse merge-
विशन्ति यद्यतयो वीतरागाः ।

</page>