2026-05-05 03:58:16 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>अष्टमोऽध्यायः ।
२३७
</ignore>
<p>यान्तरे गन्तुं शीलम् अस्येति नान्यगामि तेन नान्यगा-
मिना, परमं निरतिशयं पुरुषं दिव्यं दिवि सूर्यमण्डले
भवं याति गच्छति हे पार्थ अनुचिन्तयन् शास्त्राचार्योप-
देशम् अनुध्यायन् इत्येतत् ॥
i
</p>
<p>किंविशिष्टं च पुरुषं याति इति उच्यते-
—</p>
<verse>कविं पुराणमनुशासितार-
मणोरणीयांसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूप-
मादित्यवर्णं तमसः परस्तात् ॥ ९ ॥
</verse>
<p>कविं क्रान्तदर्शिनं सर्वज्ञं पुराणं चिरन्तनम् अनुशासि-
तारं सर्वस्य जगतः प्रशासितारम् अणोः सूक्ष्मादपि अणीयांसं
सूक्ष्मतरम् अनुस्मरेत् अनुचिन्तयेत्य:यः कश्चित्, सर्वस्य कर्म-
फलजातस्य धातारं विधातारं विचित्रतया प्राणिभ्यो विभ-
क्तारम्, अचिन्त्यरूपं न अस्य रूपं नियतं विद्यमानमपि केन-
चित् चिन्तयितुं शक्यते इति अचिन्त्यरूपः तम्, आदित्य-
वर्णम् आदित्यस्येव नित्यचैतन्यप्रकाशो वर्णो यस्य तम्
आदित्यवर्णम्, तमसः परस्तात् अज्ञानलक्षणात् मोहान्ध-
कारात् परं तम् अनुचिन्तयन् याति इति पूर्वेण संबन्धः ॥
</p>
</page>
<ignore>अष्टमोऽध्यायः ।
<p>यान्तरे गन्तुं शीलम् अस्येति नान्यगामि तेन नान्यगा-
मिना, परमं निरतिशयं पुरुषं दिव्यं दिवि सूर्यमण्डले
भवं याति गच्छति हे पार्थ अनुचिन्तयन् शास्त्राचार्योप-
देशम् अनुध्यायन् इत्येतत् ॥
i
<p>किंविशिष्टं च पुरुषं याति इति उच्यते
<verse>कविं पुराणमनुशासितार-
मणोरणीयांसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूप-
मादित्यवर्णं तमसः परस्तात् ॥ ९ ॥
<p>कविं क्रान्तदर्शिनं सर्वज्ञं पुराणं चिरन्तनम् अनुशासि-
तारं सर्वस्य जगतः प्रशासितारम् अणोः सूक्ष्मादपि अणीयांसं
सूक्ष्मतरम् अनुस्मरेत् अनुचिन्तयेत्