2026-05-05 02:30:17 by akprasad
This page has been fully proofread once and needs a second look.
<ignore>अष्टमोऽध्यायः ।
<p>वा, पुरु
अनुग्राहकः, सः अधिदैवतम् । अधियज्ञः सर्वयज्ञाभिमानिनी
विष्ण्वाख्या देवता,
विष्णुः अहमेव ; अत्र अस्मिन् देहे यो यज्ञः तस्य अहम्
अधियज्
धिकरणो भवति, देहभृतां वर ॥
<verse>अन्तकाले च मामेव स्मरन्मुक्त्वा कलेबरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥
<p>अन्तकाले मरणकाले च मामेव परमेश्वरं विष्णुं स्मरन्
मुक्त्वा परित्यज्य कलेबरं शरीरं यः प्रयाति गच्छति, सः
मद्भावं वैष्णवं तत्त्वं याति । नास्ति न विद्यते अत्र अस्मिन्
अर्थे संश
<p>न मद्विषय एव अयं नियमः । किं तर्हि ?
<verse>यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम् ।
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ६ ॥
<p merge-next="true">यं यं वापि यं यं भावं देवताविशेषं स्मरन् चिन्तयन्
.
त्यजति परित्यजति अन्ते अन्तकाले प्राणवियोगकाले कलेबरं
</page>