Proofing

This page has not been fully proofread.

२३४
 
श्रीमद्भगवद्गीताभाष्ये
 
अक्षरं न क्षरतीति अक्षरं परमात्मा, ' एतस्य वा अक्षरस्य
प्रशासने गार्गि' इति श्रुतेः । ओंकारस्य च ' ओमित्येकाक्षरं
ब्रह्म' इति परेण विशेषणात् अग्रहणम् । परमम् इति च
निरतिशये ब्रह्मणि अक्षरे उपपन्नंतरम् विशेषणम् । तस्यैव
परस्य ब्रह्मण: प्रतिदेहं प्रत्यगात्मभाव: स्वभाव:, स्वो भावः
स्वभावः अध्यात्मम् उच्यते । आत्मानं देहम् अधिकृत्य प्रत्यगा-
त्मतया प्रवृत्तं परमार्थब्रह्मावसानं वस्तु स्वभावः अध्यात्मम् उ-
च्यते अध्यात्मशब्देन अभिधीयते । भूतभावोद्भवकरः भूतानां
भावः भूतभावः तस्य उद्भवः भूतभावोद्भवः तं करोतीति भूत-
भावोद्भवकरः, भूतवस्तूत्पत्तिकर इत्यर्थः । विसर्गः विसर्जनं
देवतोद्देशेन चरुपुरोडाशादेः द्रव्यस्य परित्यागः ; स एष
'विसर्गलक्षणो यज्ञः कर्मसंज्ञितः कर्मशब्दित इत्येतत् । एत-
स्मात् हि बीजभूतात् वृष्टयादिक्रमेण स्थावरजङ्गमानि भूतानि
उद्भवन्ति ॥
 
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४ ॥
 
अधिभूतं प्राणिजातम् अधिकृत्य भवतीति । कोऽसौ ?
क्षरः क्षरतीति क्षर: विनाशी, भावः यत्किचित् जनिमत्
वस्तु इत्यर्थः । पुरुष: पूर्णम् अनेन सर्वमिति, पुरि शयनात्