2026-05-05 02:31:38 by akprasad
This page has been fully proofread once and needs a second look.
<heading>अष्टमोऽध्यायः ॥
<p>'ते ब्रह्म तद्विदुः कृत्स्नम्
अर्जुनस्य प्रश्नबीजानि उपदिष्टानि । अतः
तत्प्रश्नार्थम् अर्जु
<verse>अर्जुन उवाच
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ १ ॥
<verse>अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥
<p>एषां प्रश्नानां यथाक्रमं निर्णयाय श्रीभगवानुवाच
<verse>श्रीभगवानुवाच
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ३ ॥
</page>