2026-05-04 04:37:02 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>सप्तमोऽध्यायः ।
२२९
</ignore>
<verse>ते द्वन्द्वमोहनिर्मुक्ता
भजन्ते मां दृढव्रताः ॥ २८ ॥
</verse>
<p>येषां तु पुनः अन्तगतं समाप्तप्रायं क्षीणं पापं जनानां
पुण्यकर्मणां पुण्यं कर्म येषां सत्त्वशुद्धिकारणं विद्यते ते पुण्य-
कर्माणः तेषां पुण्यकर्मणाम्, ते द्वन्द्वमोहनिर्मुक्ताः यथोक्तेन
द्वन्द्वमोहेन निर्मुक्ताः भजन्ते मां परमात्मानं दृढव्रताः ।
'
'एवमेव परमार्थतत्त्वं नान्यथा'' इत्येवं सर्वपरित्यागत्व्रतेन
निश्चितविज्ञानाः दृढव्रताः उच्यन्ते ॥
</p>
<p>ते किमर्थं भजन्ते इत्युच्यते-
--</p>
<verse>जरामरणमोक्षाय
मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्न-
मध्यात्मं कर्म चाखिलम् ॥ २९ ॥
</verse>
<p>जरामरणमोक्षाय जरामरणयोः मोक्षार्थं मां परमेश्वरम्
आश्रित्य मत्समाहितचित्ताः सन्तः यतन्ति प्रयतन्ते ये, ते यत्
ब्रह्म परं तत् विदुः कृत्स्नं समस्तम् अध्यात्मं प्रत्यगात्मविषयं -
वस्तु तत् विदुः, कर्म च अखिलं समस्तं विदुः ॥
</p>
</page>
<ignore>सप्तमोऽध्यायः ।
<verse>ते द्वन्द्वमोहनिर्मुक्ता
भजन्ते मां दृढव्रताः ॥ २८ ॥
<p>येषां तु पुनः अन्तगतं समाप्तप्रायं क्षीणं पापं जनानां
पुण्यकर्मणां पुण्यं कर्म येषां सत्त्वशुद्धिकारणं विद्यते ते पुण्य-
कर्माणः तेषां पुण्यकर्मणाम्, ते द्वन्द्वमोहनिर्मुक्ताः यथोक्तेन
द्वन्द्वमोहेन निर्मुक्ताः भजन्ते मां परमात्मानं दृढव्रताः ।
'
'एवमेव परमार्थतत्त्वं नान्यथा
निश्चितविज्ञानाः दृढव्रताः उच्यन्ते ॥
<p>ते किमर्थं भजन्ते इत्युच्यते-
<verse>जरामरणमोक्षाय
मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्न-
मध्यात्मं कर्म चाखिलम् ॥ २९ ॥
<p>जरामरणमोक्षाय जरामरणयोः मोक्षार्थं मां परमेश्वरम्
आश्रित्य मत्समाहितचित्ताः सन्तः यतन्ति प्रयतन्ते ये, ते यत्
ब्रह्म परं तत् विदुः कृत्स्नं समस्तम् अध्यात्मं प्रत्यगात्मविषयं
वस्तु तत् विदुः, कर्म च अखिलं समस्तं विदुः ॥
</page>